Ganapathi Atharvasirshopanishad
गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्) ॥ गणपत्यथर्वशीर्षोपनिषत् (श्री गणेषाथर्वषीर्षम्) ॥ ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्ठु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ॐ नम॑स्ते ग॒णप॑तये । त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि । त्वमे॒व के॒वलं॒ कर्ता॑ऽसि । त्वमे॒व के॒वलं॒ धर्ता॑ऽसि । त्वमे॒व के॒वलं॒ हर्ता॑ऽसि । त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि । त्वं साक्षादात्मा॑ऽसि नि॒त्यम् ॥ 1 ॥ ऋ॑तं व॒च्मि । स॑त्यं व॒च्मि ॥ 2 ॥ अ॒व त्वं॒ माम् । अव॑ व॒क्तारम्᳚ । अव॑ श्रो॒तारम्᳚ । अव॑ दा॒तारम्᳚ । अव॑ धा॒तारम्᳚ । अवानूचानम॑व शि॒ष्यम् । अव॑ प॒श्चात्ता᳚त् । अव॑ पु॒रस्ता᳚त् । अवोत्त॒रात्ता᳚त् । अव॑ द॒क्षिणात्ता᳚त् । अव॑ चो॒र्ध्वात्ता᳚त् । अवाध॒रात्ता᳚त् । सर्वतो मां पाहि पाहि॑ समं॒तात् ॥ 3 ॥ त्वं वाङ्मय॑स्त्वं चिन्म॒यः । त्वमानन्दमय॑स्त्वं ब्रह्म॒मयः । त्वं सच्चिदानन्...